वांछित मन्त्र चुनें

स॒मु॒द्रः सिन्धू॒ रजो॑ अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः । अहि॑र्बु॒ध्न्य॑: शृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥

अंग्रेज़ी लिप्यंतरण

samudraḥ sindhū rajo antarikṣam aja ekapāt tanayitnur arṇavaḥ | ahir budhnyaḥ śṛṇavad vacāṁsi me viśve devāsa uta sūrayo mama ||

पद पाठ

स॒मु॒द्रः । सिन्धुः॑ । रजः॑ । अ॒न्तरि॑क्षम् । अ॒जः । एक॑ऽपात् । त॒न॒यि॒त्नुः । अ॒र्ण॒वः । अहिः॑ । बु॒ध्न्यः॑ । शृ॒ण॒व॒त् । वचां॑सि । मे॒ । विश्वे॑ । दे॒वासः॑ । उ॒त । सू॒रयः॑ । मम॑ ॥ १०.६६.११

ऋग्वेद » मण्डल:10» सूक्त:66» मन्त्र:11 | अष्टक:8» अध्याय:2» वर्ग:14» मन्त्र:1 | मण्डल:10» अनुवाक:5» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (समुद्रः) सागर (सिन्धुः) नदी (रजः) पृथिवीलोक (अन्तरिक्षम्) आकाश (एकपात्-अजः) एक स्वाधार गतिवाला अन्यों के लिए गतिप्रद सूर्य (तनयित्नुः) विद्युत् (अर्णवः) जलाशय (बुध्न्यः-अहिः) अन्तरिक्षस्थ मेघ, ये सब अनुकूल हों (विश्वेदेवासः-उत सूरयः) सब विद्वान् और मेधावी जन (मे वचांसि शृणवत्) मेरे वचनों को सुनें ॥११॥
भावार्थभाषाः - आकाश, सूर्य, पृथिवी समुद्र, नदी, जलाशय, विद्युत् तथा मेघ ये सब अनुकूल होवें तथा विद्वान् भी निवेदनों को सुननेवाले-स्वीकार करनेवाले हों, जिससे जनमात्र सुखी हो सके ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (समुद्रः) सागरः (सिन्धुः) नदी (रजः) पृथिवीलोकः (अन्तरिक्षम्) आकाशः (एकपात्-अजः) एकः स्वाधारगतिकोऽन्येभ्यो गतिप्रदः सूर्यः “अज एकपादुदगात् पुरस्तात्.....तं सूर्यं देवमजमेकपादम्” [तै० ३।१।२।८] (तनयित्नुः) स्तनयित्नुः-विद्युत् (अर्णवः) उदकवान् जलाशयः “अर्णः-उदकनाम” [निघ० १।१२] (बुध्न्यः-अहिः) आन्तरिक्ष्यो मेघः, एते अनुकूला भवन्तु (विश्वेदेवासः-उत सूरयः) सर्वे विद्वांसोऽपि मेधाविनश्च (मे वचांसि शृणवत्) मम प्रार्थनावचनानि शृण्वन्तु ॥११॥